विष्णु स्तोत्रे

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे.या विश्वात जेव्हा जेव्हा राक्षसी शक्ती मानवास त्रासदायक होतात,तेव्हा श्रीविष्णू अवतार घेऊन त्यांचा नाश करतात.विष्णूचे अवतार दहा-मत्स्य, कूर्म, वराह, नरसिंह, वामन, परशुराम, राम, कृष्ण, बुद्ध आणि कल्की. ज्या ज्या वेळेस विष्णूने पृथ्वीवर अवतार घेतला त्या त्या वेळेस त्यांची पत्नी लक्ष्मीनेही अवतार घेतला, रामावतरात सीता तर कृष्णावतारात रुख्मिणी. कृष्णावतारात भगवानांनी अर्जुनाला गीता सांगितली, ज्यात जीवनातील अंतीम सत्य आहे.विष्णूला नारायण म्हणूनही संबोधतात.विष्णूचे वास्तव्य क्षीरसागरात शेशनागावर आहे. त्याचे वाहन गरूड आहे.चार हातात शंख, चक्र, गदा, पद्म आहेत.समुद्रमंथनात अमृत मिळाले असता मोहिनी रूप घेऊन ते त्यांनी देवांना मिळवून दिले.


विष्णुस्तवराजः

श्री गणेशाय नमः ।
पद्मोवाच ।
योगेन सिद्धविबुधैः परिभाव्यमानं लक्ष्म्यालयं तुलसिकाचितभक्तभृङ्गम् ।
प्रोत्तुङ्गरक्तनखराङ्गुलिपत्रचित्रं गङ्गारसं हरिपदाम्बुजमाश्रयेऽहम् ॥१॥
गुम्फन्मणिप्रचयघट्टितराजहंससिञ्जत्सुनूपुरयुतं पदपद्मवृन्दम् ।
पीताम्बराञ्चलविलोलचलत्पताकं स्वर्णत्रिवक्रवलयं च हरेः स्मरामि ॥२॥
जंघे सुर्पणगलनीलमणिप्रवृद्धशोभास्पदारुणमणिद्युतिचञ्चुमध्ये ।
आरक्तपादतललम्बनशोभमाने लोकेक्षणोत्सवकरे च हरेः स्मरामि ॥३॥
ते जानुनी मखपतेर्भुजमूलसङ्गरङ्गोत्सवावृततडिद्वसने विचित्रे ।
चञ्चत्पतत्रिमुखनिर्गतसामगीतविस्तारितात्मयशसी च हरेः स्मरामि ॥४॥
विष्णोः कटिं विधिकृतान्तमनोजभूमिं जीवाण्डकोशगणसङ्गदुकूलमध्याम् ।
नानागुणप्रकृतिपीतविचित्रवस्त्रां ध्याये निबद्धवसनां खगपृष्ठसंस्थाम् ॥५॥
शान्तोदरं भगवतस्त्रिवलिप्रकाशमावर्तनाभिविकसद्विधिजन्मपद्मम् ।
नाडीनदीगणरसोत्थसितान्त्रसिन्धुं ध्यायेऽण्डकोशनिलयं तनुलोमरेखम् ॥६॥
वक्षः पयोधितनयाकुचकुङ्कुमेन हारेण कौस्तुभमणिप्रभया विभातम् ।
श्रीवत्सलक्ष्म हरिचन्दनजप्रसूनमालोचितं भगवतः सुभगं स्मरामि ॥७॥
बाहू सुवेषसदनौ वलयाङ्गदादिशोभास्पदौ दुरितदैत्यविनाशदक्षौ ।
तौ दक्षिणौ भगवतश्च गदासुनाभतेजोर्जितौ सुललितौ मनसा स्मरामि ॥८॥
वामौ भुजौ मुररिपोर्धृतपद्मशङ्खौ श्यामौ करीन्द्रकरवन्मणिभूषणाढ्यौ ।
रक्ताङ्गुलिप्रचयचुम्बितजानुमध्यौ पद्मालयाप्रियकरौ रुचिरौ स्मरामि ॥९॥
कण्ठं मृणालममलं मुखपङ्कजस्य लेखात्रयेण वनमालिकया निवीतम् ।
किंवा विमुक्तिवशमन्त्रकसत्फलस्य वृन्तं चिरं भगवतः सुभगं स्मरामि ॥१०॥
वक्त्राम्बुजं दशनहासविकासरम्यं रक्ताधरौष्ठवरकोमलवाक्सुधाढ्यम ।
सन्मानसोद्भवचलेक्षणपत्रचित्रं लोकाभिरामममलं च हरेः स्मरामि ॥११॥
सूरात्मजावसथगन्धमिदं सुनासं भ्रूपल्लवं स्थितिलयोदयकर्मदक्षम् ।
कामोत्सवं च कमलाहृदयप्रकाशं सञ्चिन्तयामि हरिवक्त्रविलासदक्षम् ॥१२॥
कर्णौ लसन्मकरकुण्डलगन्धलोलौ नानादिशां च नभसश्च विकासगेहम् ।
लोलालकप्रचयचुम्बनकुञ्चिताग्रौ लग्नौ हरेर्मणिकिरीटतटे स्मरामि ॥१३॥
भालं विचित्रतिलकं प्रियचारुगन्धगोरोचनारचनया ललनाक्षिसख्यम् ।
ब्रह्मैकधाममणिकान्तकिरीटजुष्टं ध्याये मनोनयनहारकमीश्वरस्य ॥१४॥
श्रीवासुदेवचिकुरं कुटिलं निबद्धं नानासुगन्धिकुसुमैः स्वजनादरेण ।
दीर्घं रमाहृदयगाशमनं धुनन्तं ध्यायेऽम्बुवाहरुचिरं हृदयाब्जमध्ये ॥१५॥
मेघाकारं सोमसूर्यप्रकाशं सुभ्रून्नासं शक्रचापैकमानम् ।
लोकातीतं पुण्डरीकायताक्षं विद्युच्चैलं चाश्रयेऽहं त्वपूर्वम् ॥१६॥
दीनं हीनं सेवया दैवगत्या पापैस्तापैः पूरितं मे शरीरम् ।
लोभाक्रान्तं शोकमोहादिविद्धं कृपादृष्ट्या पाहि मां वासुदेव ॥१७॥
ये भक्त्याऽद्यां ध्यायमानां मनोज्ञां व्यक्तिं विष्णोः षोडशश्लोकपुष्पैः ।
स्तुत्वा नत्वा पूजयित्वा विधिज्ञाः शुद्धा मुक्ता ब्रह्मसौख्यं प्रयान्ति ॥१८॥
पद्मेरितमिदं पुण्यं शिवेन परिभाषितम् ।
धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं परम् ॥१९॥
पठन्ति ये महाभागास्ते मुच्यन्तेऽहसोऽखिलात् ।
धर्मार्थकाममोक्षाणां परत्रेह फलप्रदम् ॥२०॥
 
। इति श्रीकल्किपुराणेऽनुभागवते भविष्ये पद्माप्रोक्तो विष्णुस्तवराजः सम्पूर्णम्  ।