परदारपरद्रव्यजीवहिंसादिके यदा ।
प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥१॥
विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः ।
नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिम् ॥२॥
चित्तस्थमीशमव्यक्तमनन्तमपराजितम् ।
विष्णुमीद्यमशेषेण अनादिनिधनं विभुम् ॥३॥
विष्णुश्चित्तगतो यन्मेविष्णुर्बुद्धिगतश्च यत् ।
यच्चाहङ्कारगो विष्णुर्यव्दिष्णुर्मयिसंस्थितः ॥४॥
करोति कर्मभूतोऽसौ स्थावरस्य चरस्य च ।
तत् पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ॥५॥
ध्यातो हरति यत् पापं स्वप्ने दृष्टस्तु भावनात् ।
तमुपेन्द्रमहं विष्णुं प्रणतार्त्तिहरं हरिम् ॥६॥
जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः ।
हस्तावलम्बनं विष्णुं प्रणमामि परात्परम् ॥७॥
सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज ।
हृषीकेश हृषीकेश हृषीकेश नमोऽस्तुते ॥८॥
नृसिंहानन्त गोविंद भूतभावन केशव ।
दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमोऽस्तुते ॥९॥
यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्त्तिना ।
अकार्यमहदत्युग्रन्तच्छमन्नय केशव ॥१०॥
ब्रह्मण्यदेव गोविंद परमार्थपरायण ।
जगन्नाथ जगद्ध्यातः पापं प्रशमयाच्युत ॥११॥
यथापराह्ने सायाह्ने मध्याह्ने च तथा निशि ।
कायेन मनसा वाचा कृतं पापमजानता ॥१२॥
जानता च हृषीकेश पुण्डरीकाक्ष माधव ।
नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयम् ॥१३॥
शरीरं मे हृषीकेश पुण्डरीकाक्ष माधव ।
पापं प्रशमयाद्यत्वं वाक्कृतं मम माधव ॥१४॥
यद्भुंजनयत्स्वपंस्तिष्ठन् गच्छन् जाग्रद् यदास्थितः ।
कृतवान् पापमद्याहं कायेन मनसागिरा ॥१५॥
यत् स्वल्पमपि यत् स्थूलं कुयोनिनरकावहम् ।
तद्यातु प्रशमंसर्व वासुदेवानुकीर्तनात् ॥१६॥
परं ब्रह्म परं धाम पवित्रं परमञ्च यत् ।
तस्मिन् प्रकीर्तिते विष्णौ यत् पापं तत् प्रणश्यतु ॥१७॥
यत् प्राप्य न निवर्तन्ते गन्धस्पर्शादि वर्जितम् ।
सूरयस्तत् पदं विष्णोस्तत् सर्वं शमयत्वधम् ॥१८॥
माहात्म्यं
पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि ।
शारीरैर्मानसैर्वाग्जैः कृतैः पापैः प्रमुच्यते ॥१९॥
सर्वपापग्रहादिभ्यो यातिविष्णोः परं पदम् ।
तस्मात्पापे कृते जप्यंस्तोत्रंसर्वाघमर्दनम् ॥२०॥
प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरम् ।
प्रायश्चित्तैः स्त्रोत्रजपैर्व्रतैर्नश्यति पातकम् ॥२१॥
ततः कार्याणि संसिद्ध्यै तानि वै भुक्तिमुक्तये ॥२२॥
इत्याग्नेये महापुराणे सर्वपापप्रायश्चित्त पापनाशनस्तोत्रं
नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥