श्रीगणेशाय नम: ॥ गौर्युवाच ॥
एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १ ॥
दैत्या नानाविधा दुष्टा: साधुदेवद्रुह: खला: । अतोऽस्य कंठे किंचित्त्वं रक्षार्थ बद्धुमर्हसि ॥ २ ॥
मुनिरूवाच ॥
ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् ।
द्वापरके तु गजाननं युगभुजं रक्तांगरागं विभुं तुर्ये तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥ ३ ॥
विनायक: शिखां पातु परमात्मा परात्पर: । अतिसुन्दरकायस्तु मस्तकं सुमहोत्कट: ॥ ४ ॥
ललाटं कश्यप: पातु भ्रूयुगं तु महोदर: । नयने भालचंद्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥ ५ ॥
जिल्हां पातु गणक्रीडश्चिबुकं गिरिजासुत: । वाचं विनायक: पातु दंतान रक्षतु दुर्मुख: ॥ ६ ॥
श्रवणौ पाशपाणिस्तु नासिकां चिंतितार्थद: । गणेशस्तु मुखं कंठं पातु देवो गणंजय: ॥ ७ ॥
स्कंधौ पातु गजस्कंध: स्तनौ विघ्नविनाशन : । ह्रदयं गणनाथस्तु हेरंबो जठरं महान् ॥ ८ ॥
धराधर: पातु पार्श्वौ पृष्ठं विघ्नहर: शुभ:। लिंग गुह्यं सदा पातु वक्रतुण्डो महाबल: ॥ ९ ॥
गणक्रीडो जानुजंघे ऊरू मंगलमूर्तिमान् । एकदंतो महाबुद्धि: पादौ गुल्फौ सदाऽवतु ॥ १० ॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरक: । अङ्गुलीश्च नखान्पातु पद्महस्तोऽरिनाशन: ॥ ११ ॥
सर्वांगणि मयूरेशो विश्वव्यापी सदाऽवतु । अनुक्तमपि यत्स्थानं धूम्रकेतु: सदाऽवतु ॥ १२ ॥
आमोदस्त्वग्रत: पातु प्रमोद: पृष्ठतोऽवतु । प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायक: ॥ १३ ॥
दक्षिणस्यामुमापुत्रो नैर्ऋत्यां तु गणेश्वर: । प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णक: ॥ १४ ॥
कौबेर्यां निधिप: पायादीशान्यामीशनन्दन: । दिवाऽव्यादेकदंतस्तु रात्रौ संध्यासु विघ्नह्रत् ॥ १५ ॥
राक्षसासुरवेतालग्रहभूतपिशाचत:। पाशांकुशधर: पातु रज:सत्त्वतम:स्मृती : ॥ १६ ॥
ज्ञानं धर्म च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् । वपुर्धनं च धान्यं च गृहदारान्सुतान सखीन् ॥ १७ ॥
सर्वायुधधर: क्षेत्रं मयूरेशोऽवतात्सदा । कपिलोऽजाविकं पातु गजाश्वान्विकटोऽवतु ॥ १८ ॥
भूर्जपत्रे लिखित्वेदं य: कंठे धारयेत्सुधी: । न भयं जायते तस्य यक्षरक्ष:पिशाचत: ॥ १९ ॥
त्रिसंध्यं जपते यस्तु वज्रसारतनुर्भवेत् । यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २०॥
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद् ध्रुवम् । मरणोच्चाटनाकर्षस्तंभमोहनकर्मणि ॥ २१ ॥
सप्तवारं जपेदेतद्दिनानामेकविंशतिम् । तत्तत्फलमवाप्नोति साधको नात्र संशय: ॥ २२ ॥
एकविंशतिवारं च पठेत्तावद्दिनानि य: । कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ॥ २३ ॥
राजदर्शनवेलायां पठेदेतत्रिवारत: । स राजानं वशं नीत्वा प्रकृतित्र्च सभां जयेत् ॥ २४ ॥
इदं गणेशकवचं काश्यपेन समीरितम् । मुद्गलाय च तेनाथ मांडव्याय महर्षये ॥ २५ ॥
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् । न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६ ॥
अनेनास्य कृता रक्षा न बाधाऽस्य भवेत्क्वचित् । राक्षसासुरवेतालदैत्यदानवसंभवम ॥ २७ ॥
। इति श्रीगणेशपुराणे गणेशकवचं संपूर्णम् ।