श्रीगणेशाय नम: ॥
अनिर्वाच्यं रूपं स्तवननिकरो यत्र गलितस्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्यात्र महत: ।
यतो जातं विश्वं स्थितमपि सदा यत्र विलय: स कीदृग्गीर्वाण : सुनिगमनुत: श्रीगणपति: ॥ १ ॥
गणेशं गाणेशा: शिवमिति च शैवाश्च विबुधा रविं सौरा विष्णुं प्रथम पुरुषं विष्णुभजका: ।
वदन्त्येकं शाक्ता जगदुदयमूलां परशिवां न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ॥ २ ॥
तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं समीमांसा वेदांतिन इति परं ब्रह्म सकलम् ।
अजां सांख्यो ब्रूते सकलगुणरूपां च सततं प्रकर्तारं न्यायस्त्वथ जगति बौद्धा धियमिति ॥ ३ ॥
कथं ज्ञेयो बुद्धे परतर इयं बाह्यसरणिर्यथा धीर्यस्य स्यात्स: च तदनुरूपो गणपति: ।
महत्कृत्यं तस्य स्वयमपि महान् सूक्ष्ममणुवद्घनज्योतिर्बिन्दुर्गगनसदृशा किं च सदसत् ॥ ४ ॥
अनेकास्यापाराक्षिकरचरणोऽनन्तह्रदयस्तथा नानारूपो विविधवदन: श्रीगणपति: ।
अनन्ताह्व: शक्त्या विविधगुणकर्मैकसमये त्वसंख्यातानन्ताभिमतफलदोऽनेकविषये ॥ ५ ॥
न यस्यांतो मध्यो न च भवति चादि: सुमहतामलिप्त: कृत्वेत्थं सकलमपि खंवत्स च पृथक् ।
स्मृत: संस्मर्तणां सकलह्रदयस्थ : प्रियकरो नमस्तस्मै देवाय च सकलवंद्याय महते ॥ ६ ॥
गणेशाद्यं बीजं दहनवनितापल्लवयुतं मनुश्चैकार्णोऽयं प्रणवसहितोऽभीष्टफलद: ।
सबिंदुश्चांगाद्या गणक ऋषिछन्दोऽस्य च निचृत्स देव: प्राग्बीजं वियदपि च शक्तिर्जपकृताम् ॥ ७ ॥
गकारो हेरंब सगुण इति पुंनिर्गुणमयो द्विधाप्येको जात: प्रकृतिपुरुषो ब्रह्म हि गण: ।
सचेशश्चोत्पत्तिस्थितिलयकरोऽयं प्रमथको यतो भूतं भव्यं भवति पतिरीशो गणपति: ॥ ८ ॥
गकार: कण्ठोर्ध्वं गजमुखसमो मर्त्यसदृशो णकार: कण्ठाधो जठरसदृशाकार इति च ।
अधोभव: कट्यां चरण इति हीशोऽस्य च तनुर्विभातीत्थं नाम त्रिभुवनसमं भूर्भुव: स्व: ॥ ९ ॥
गणेशेति त्र्यर्णात्मकमपि वरं नाम सुखदं सकृत्प्रोच्चैरुच्चारितमिति नृभि: पावनकरम् ।
गणेशस्यैकस्य प्रतिजपकरस्यास्य सुकृतं न विज्ञातो नाम्न: सकलमहिमा कीदृशविध: ॥ १० ॥
गणेशेत्याह्वं य: प्रवदति मुहुतस्य पुरत: प्रपश्यंस्तद्वक्रं स्वयमपि गणस्तिष्ठति तदा ।
स्वरूपस्य ज्ञानं त्वमुक इति नाम्नास्य भवति प्रबोध: सुप्तस्य त्वखिलमिह सामर्थ्यममुना ॥ ११ ॥
गणेशो विश्वेऽस्मिन्स्थित इहच विश्वं गणपतौ गणेशो यत्रास्ते धृतिमतिरमैश्वर्यमखिलम् ।
समुक्तं नामैकं गणपतिरिदं मङ्गलमयं तदेकास्ये दृष्टे सकलविबुधास्येक्षणसमम् ॥ १२ ॥
बहुक्लेशैर्व्याप्त: स्मृत उत गणेशे च ह्रदये क्षणात्क्लेशान्मुक्तो भवति सहसा त्वभ्रचयवत् ।
वने विद्यारंभे युधि रिपुभये कुत्र गमने प्रवेशे प्राणांते गणपतिपदं चाशु विशति ॥ १३ ॥
गणाध्यक्षो ज्येष्ठ: कपिल इतरो मङ्गलनिधिर्दयालुर्हेरंबो वरद इति चिंतामणिरज: ।
वरानीशो ढुंढिर्गजवदननामा शिवसुतो मयूरेशो गौरीतनय इति नामानि पठति ॥ १४ ॥
महेशोऽयं विष्णु: सकविरविरिंदु: कमलज: क्षितिस्तोयं वह्नि: श्वसन इति खं त्वद्रिरुदधि:।
कुजस्तार: शुक्रो गुरुरुडुबुधोऽगुश्च धनदो यम: पाशी कव्य: शनिरखिलरुपो गणपति: ॥ १५ ॥
मुखं वह्नि पादौ हरिरपि विधाता प्रजननं रविर्नेत्रे चन्द्रो ह्रदयमपि कामोऽस्य मदन: ।
करौ शक्र: कटयाववनिरुदरं भाति दशनं गणेशस्यासन्वै ऋतुमयवपुश्चैव सकलम् ॥ १६ ॥
अनर्घ्यालंकारैररुणवसनैर्भूषिततनु: करींद्रास्य: सिंहासनमुपगतो भाति बुधराट् ।
स्मितास्यात्तन्मध्येऽप्युदितरविबिंबोपमरुचि: स्थिता सिद्धिर्वामे मतिरिततगा चामरकरा ॥ १७ ॥
समंतात्तस्यासन्प्रवरमुनिसिद्धासुरगणा: प्रशंसंतीत्यग्रे विविधनुतिभि: सांजलिपुटा: ।
बिडौजाद्यैर्ब्रह्मादिभिरनुवृतो भक्तनिकरैर्गणक्रीडामोदप्रमुदविकटाद्यै: सहचरै: ॥ १८ ॥
वशित्वाद्यष्टाष्टादशदिगखिलाल्लोलमनुवाग्धृति: पाद: खङ्गो जनरसबला: सिद्धय इमा: ।
सदा पृष्ठे तिष्ठंत्यनिमिषदृशस्तन्मुखलया गणेशं सेवंतेऽप्यतिनिकट सूपायनकरा: ॥ १९ ॥
मृगांकास्या रंभाप्रभृतिगणिक यस्य पुरत: सुसंगीतं कुर्वत्यपि कुतुकगंधर्वसहिता: ।
मुद: पारो नात्रेत्यनुपमप्रमोदैर्विगलिता: स्थिरं जातं चित्तं चरणमवलोक्यास्य विमलम् ॥ २० ॥
हरेणायं ध्यातस्त्रिपुरमथने चासुरवधे गणेश: पार्वत्या बलिविजयकालेऽपि हरिणा ।
विधात्रा संसृष्टावुरगपतिना क्षोणिधरणे नरै: सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुष: ॥ २१ ॥
अयं सुप्रासादे सुर इव निजानंदभुवने महान् श्रीमानाद्यो लघुतरगृहे रंकसदृश: ।
शिशुद्वारे द्वा:स्थो नृप इव सदा भूपतिगृहे स्थितो भूत्वोमांके शिशुगणपतिर्लालनपर: ॥ २२ ॥
अमुष्मिन्संतुष्टे गजवदन एवापि विबुधे ततस्ते संतुष्टस्त्रिभुवनगता: स्युर्बुधगणा: ।
दयालुर्हेरंबो न च भवति यस्मिंश्च पुरुषे वृथा सर्व तस्य प्रजननमत: सांद्रतमसि ॥ २३ ॥
वरेण्यो भूशुंडी गुरुगुरुकुजा मुग्दलमुखा ह्यपारास्तद्भक्ता जपहवनपूजास्तुतिपरा: ।
गणेशोऽयं भक्तप्रिय इति च सर्वत्र गदितं विभक्तिर्यत्रास्ते स्वयमपि सदा तिष्ठति गण: ॥ २४ ॥
मृद: काचिद्धातोश्छविविलिखिता वाऽपि दृषद: स्मृता व्याजान्मूर्ति: पथि यदि बहिर्येन सहसा ।
अशुद्धोद्धा द्रष्टा प्रवदति तदाह्वां गणपते: श्रुत: शुद्धो मर्त्यो भवति दुरिताद्विस्मय इति ॥ २५ ॥
बहिर्द्वारस्योर्ध्व गजवदनवर्ष्मे धनमयं प्रशस्तं वा कृत्वा विविधकुशलैस्तत्र निहतम् ।
प्रभावात्तन्मूर्त्या भवति सदनं मंगलमयं विलोक्यानन्दस्तां भवति जगतो विस्मय इति ॥ २६ ॥
सिते भाद्रे मासे प्रतिशरदि मध्याह्नसमये मृदो मूर्ति कृत्वा गणपतितिथौ ढुंढिसदृशीम्।
समर्चन्त्युत्साह: प्रभवति महान् शर्वसदने विलोक्यानंदस्तां प्रभवति नृणां विस्मय इति ॥ २७ ॥
तथा ह्येक: श्लोको वरयति महिम्नो गणपते: कथं स श्लोकेऽस्मिन् स्तुत इति भवेत्संप्रपतिते ।
स्मृतं नामास्यैकं सकृदिदमनंताह्वयसमं यतो यस्यैकस्य स्तवनसदृशं नान्यदपरम् ॥ २८ ॥
गजवदन विभो यद्वर्णितं वैभवं ते त्विह जनुषि ममेत्थं चारु तद्दर्शयाशु ।
त्वमसि च करुणाया: सागर: कृत्स्न दाताऽप्यति तव भृतकोऽहं सर्वदा चिन्तकोऽस्मि ॥ २९ ॥
सुस्तोत्रं प्रपठतु नित्यमेतदेव स्वानंद प्रति गमनेऽप्ययं सुमार्ग: ।
संचित्यं स्वमनसि तत्पदारविन्दं स्थाप्याग्रे स्तवनफलं नती: करिष्ये ॥ ३० ॥
गणेशदेवस्य माहात्म्यमेतद्य: श्रावयेद्वापि पठेच्च तस्य ।
क्लेशा लयं यांति लभेच्च शीघ्रं स्त्रीपुत्रविद्यार्थगृहं च मुक्तिम् ॥ ३१ ॥
॥ इति श्रीपुष्पदंतविरचितश्रीगणेशमहिम्न: स्तोत्रं संपूर्णम् ॥