स्तोत्रे १
स्तोत्रे Updated: 15 April 2021 07:30 IST

स्तोत्रे १ : एकमुखी हनुमत् कवचम्

सर्व स्तोत्रे या वर्गात आहे.

दुर्गा कवच   देवी कवच

॥ अथ एकमुखी हनुमान् कवचम् ॥

॥ श्रीरामदास उवाच ॥
एकदा सुखमासीनं शंकरं लोकशंकरम् ।
प्रपच्छ गिरिजाकांतं कर्पूरधवलं शिवम् ॥
॥ पार्वत्युवाच ॥
भगवन् देवदेवेश लोकनाथ जगत्प्रभो ।
शोकाकुलानां लोकानां केन रक्षा भवेद् ध्रुवम् ॥
संग्रामे संकटे घोरे भूत-प्रेतादिके भये ।
दु:ख-दावाग्नि-संतप्त-चेतसां दु:खभागिनाम् ॥
॥ श्रीमहादेव उवाच ॥
श्रृणु देवि प्रवक्ष्यामि लोकानां हितकाम्यया ।
विभीषणाय रामेण प्रेम्णा दत्तं च यत्पुरा ॥
कवचं कपि-नाथस्य वायु-पुत्रस्य धीमत: ।
गुह्यं तत्ते प्रवक्ष्यामि विशेषाच्छ्रणु सुंदरि ॥

उद्यदादित्य-संकाशमुदार-भुज-विक्रमम् ।
कंदर्प-कोटि-लावण्यं सर्व-विद्या-विशारदम् ॥
श्रीराम-हृदयानन्दं भक्त-कल्पमहीरुहम् ।
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥
हनुमानञ्जनीसूनुर्वायुपुत्रो महाबल: ।
रामेष्ट: फाल्गुनसख: पिङ्गाक्षोऽमितविक्रम: ॥
उदधिक्रमणश्चैव सीताशोकविनाशन: ।
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥

एवं द्वादश नामानि कपीन्द्रस्य महात्मन: ।
स्वल्पकाले प्रबोधे च यात्राकाले च य: पठेत् ॥
तस्य सर्वभयं नास्ति रणे च विजयी भवेत् ।
राजद्वारे गह्वरे च भयं नास्ति कदाचन ॥

उल्लङ्घ्य सिन्धो: सलिलं सलीलं य: शोकवह्निं जनकात्मजाया: ।
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥

मंत्र- “ॐ नमो हनुमते सर्व-ग्रहान् भूत-भविष्य-द्वर्तमानान् समीप-स्थान् सर्व-काल-दुष्ट-बुद्धीनुच्चाटयोच्चाटय परबलान् क्षोभय क्षोभय मम सर्व-कार्याणि साधय साधय ॐ ह्रां ह्रीं ह्रूं फट् । घे घे घे ॐ शिवसिद्धिं ॐ ह्रां ॐ ह्रीं ॐ ह्रूं ॐ ह्रैं ॐ ह्रौं ॐ ह्र: स्वाहा । पर-कृत-यन्त्र-मन्त्र-पराहंकार-भूत-प्रेत-पिशाच-दृष्टि-सर्व-विघ्न-दुर्जन-चेष्टा-कुविद्या-सर्वोग्रभयानि निवारय निवारय बन्ध बन्ध लुण्ठ लुण्ठ विलुञ्च विलुञ्च किलि किलि सर्वकुयन्त्राणि दुष्टवाचं ॐ हुं फट् स्वाहा ।”

श्रद्धापूर्वक प्रार्थना करने के उपरांत हाथ की अंजली में जल लेकर विनियोग करते हुए जल को पृथ्वी पर छोड़ दें। तत्पश्चात् वायुपुत्र का ध्यान करते हुए सम्पूर्ण अंगों का न्यास करें। प्रत्येक अंग को ध्यान करते हुए स्पर्श करें।

विनियोगः- ॐ अस्य श्रीहनुमत्-कवच-स्तोत्र-मन्त्रस्य श्रीरामचन्द्र ऋषि:, श्रीहनुमान् परमात्मा देवता, अनुष्टुप् छंद:, मारुतात्मज इति बीजम्, ॐ अंजनीसूनुरिति शक्ति:, लक्ष्मण-प्राण-दातेति कीलकम् रामदूतायेती अस्त्रम्, हनुमानदेवता इति कवचम्, पिङ्गाक्षोऽमितविक्रम इति मन्त्र:, श्रीरामचन्द्रप्रेरणया रामचन्द्रप्रीत्यर्थं मम सकलकामनासिद्धये जपे विनियोग:।

करन्यासः- ॐ ह्रां अञ्जनी-सुताय अंगुष्ठाभ्यां नम:। ॐ ह्रीं रुद्र-मूर्त्तये तर्जनीभ्यां नम:। ॐ ह्रूं राम-दूताय मध्यमाभ्यां नम:। ॐ ह्रैं वायु-पुत्राय अनामिकाभ्यां नम:। ॐ अग्नि-गर्भाय कनिष्ठिकाभ्यां नम:। ॐ ह्र: ब्रह्मास्त्र-निवारणाय करतल-कर-पृष्ठाभ्यां नम:।

हृदयादिन्यासः- ॐ ह्रां अञ्जनीसुताय हृदयाय नम:। ॐ ह्रीं रुद्रमूर्तये शिरसे स्वाहा। ॐ ह्रूं रामदूताय शिखायै वषट्। ॐ ह्रैं वायुपुत्राय कवचाय हुम्। ॐ ह्रौं अग्निगर्भाय नेत्रत्रयाय वौषट्। ॐ ह्र: ब्रह्मास्त्रनिवारणाय अस्त्राय फट्।

॥ ध्यानम् ॥

ध्यायेद् बाल-दिवाकर-द्युति-निभं देवारि-दर्पापहं देवेन्द्र-प्रमुखं-प्रशस्त-यशसं देदीप्यमानं रुचा ।
सुग्रीवादि-समस्त-वानर-युतं सुव्यक्त-तत्त्व-प्रियं संरक्तारुण-लोचनं पवनजं पीताम्बरालंकृतम् ॥
उद्यन्मार्तण्ड-कोटि-प्रकटरुचियुतं चारुवीरासनस्थं मौञ्जीयज्ञोपवीताभरणरुचिशिखं शोभितं कुंडलाङ्कम् ।
भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनादप्रमोदं ध्यायेद् देवं विधेयं प्लवगकुलपतिं गोष्पदी भूतवार्धिम् ॥
वज्राङ्गं पिङ्गकेशाढ्यं स्वर्णकुण्डल-मण्डितम् । निगूढमुपसङ्गम्य पारावारपराक्रमम् ॥
स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् । कुण्डलद्वयसंशोभिमुखाम्भोजं हरिं भजे ॥
सव्यहस्ते गदायुक्तं वामहस्ते कमण्डलुम् । उद्यद्दक्षिणदोर्दण्डं हनुमन्तं विचिन्तयेत् ॥

ध्यान के उपरांत श्रद्धापूर्वक 11 बार कवच मंत्र का जाप करें।

कवच मन्त्रः- “ॐ नमो हनुमदाख्यरुद्राय सर्व-दुष्ट-जन-मुख-स्तम्भनं कुरु कुरु ॐ ह्रां ह्रीं ह्रूं ठं ठं ठं फट् स्वाहा ।
ॐ नमो हनुमते शोभिताननाय यशोऽलंकृताय अञ्जनीगर्भसम्भूताय रामलक्ष्मणानन्दकाय कपिसैन्यप्राकाराय पर्वतोत्पाटनाय सुग्रीवसाह्यकरणाय परोच्चाटनाय कुमार ब्रह्मचर्यगम्भीरशब्दोदय ॐ ह्रीं सर्वदुष्टग्रह निवारणाय स्वाहा।

ॐ नमो हनुमते पाहि पाहि एहि एहि सर्वग्रहभूतानां शाकिनी डाकिनीनां विषमदुष्टानां सर्वेषामाकर्षयाकर्षय मर्दय मर्दय छेदय छेदय मृत्यून् मारय मारय शोषय शोषय प्रज्वल प्रज्वल भूत-मण्डल-पिशाच-मण्डल-निरसनाय भूत-ज्वर-प्रेत-ज्वर-चातुर्थिक-ज्वर-विष्णु-ज्वर-महेश-ज्वरं छिन्धि छिन्धि भिन्धि भिन्धि अक्षिशूल-पक्षशूल-शिरोऽभ्यन्तरेशूल-गुल्मशूल-पित्तशूल ब्रह्मराक्षसकुलच्छेदनं कुरु प्रबलनागकुलविषं निर्विषं कुरु कुरु झटिति झटिति । ॐ ह्रां ह्रीं फट् सर्व-ग्रहनिवारणाय स्वाहा।
ॐ नमो हनुमते पवनपुत्राय वैश्वानरमुखाय पापदृष्टि-चोरदृष्टि हनुमदाज्ञास्फुर ॐ स्वाहा।
स्वगृहे-द्वारे-पट्टके तिष्ठ तिष्ठेति तत्र रोगभयं राजकुलभयं नास्ति तस्योच्चारणमात्रेण सर्वे ज्वरा नश्यन्ति। ॐ ह्रां ह्रीं ह्रूं फट् घे घे स्वाहा।

॥ कवच ॥
॥ श्रीरामचन्द्र उवाच ॥
हनुमान् पूर्वत: पातु दक्षिणे पवनात्मज: ।
पातु प्रतीच्यां रक्षोघ्नः पातु सागरपारगः ॥१॥
उदीच्यामूर्ध्वतः पातु केसरीप्रियनन्दनः ।
अधस्ताद् विष्णुभक्तस्तु पातु मध्यं च पावनिः ॥२॥
अवान्तरदिशः पातु सीताशोकविनाशकः ।
लङ्काविदाहक: पातु सर्वापद्भ्यो निरन्तरम् ॥३॥
सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः ।
भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् ॥४॥
नेत्रेच्छायापहारी च पातु नः प्लवगेश्वरः ।
कपोलौ कर्णमूले तु पातु श्रीरामकिङ्करः ॥५॥
नासाग्रमञ्जनीसूनुः पातु वक्त्रं हरीश्वरः ।
वाचं रुद्रप्रियः पातु जिह्वां पिङ्गललोचनः ॥६॥
पातु दन्तानु फालगुनेष्टश्चिबुकं दैत्यपादहृत् ।
पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः ॥७॥
भुजौ पातु महातेजाः करौ च चरणायुधः ।
नखान्नखायुधः पातु कुक्षौ पातु कपीश्वरः ॥८॥
वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ।
लङ्कानिभञ्जनः पातु पृष्ठदेशे निरन्तरम् ॥९॥
नाभिं च रामदूतस्तु कटिं पात्वनिलात्मजः ।
गुह्यं पातु महाप्राज्ञो लिङ्गं पातु शिवप्रियः ॥९॥
ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः ।
जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः ॥१०॥
अचलोद्धारकः पातु पादौ भास्करसन्निभः ।
अङ्गान्यमितसत्त्वाढयः पातु पादाङ्गुलीस्तथा ॥११॥
सर्वाङ्गानि महाशूरः पातु रोमाणि चात्मवित् ।
कुमारः कन्यकां पातु पिङ्गाक्षः पातु वै पशून् ॥१२॥
वायुसूनुः सुतान्पातु मार्गं पातु महाबली ।
द्रोणाचलसुरस्थायी राजद्वारेऽपि रक्ष माम् ॥१३॥
जानकीशोकभयहृत्कुटुम्बं कपिवल्लभः ।
रक्षाहीनं तु यत्स्थानं रक्षतां यमकिङ्करः ॥१४॥
हनुमत्कवचं यस्तु पठेद् विद्वान् विचक्षणः ।
स एव पुरुषश्रेष्ठो भुक्तिं मुक्तिं च विन्दति ॥१५॥
त्रिकालमेककालं वा पठेन्मासत्रयं नरः ।
सर्वानृरिपून् क्षणाज्जित्वा स पुमान् श्रियमाप्नुयात् ॥१६॥
मध्यरात्रे जले स्थित्वा सप्तवारं पठेद्यदि ।
क्षयाऽपस्मार-कुष्ठादितापत्रय-निवारणम् ॥१७॥
अश्वत्थमूलेऽर्कवारे स्थित्वा पठति यः पुमान् ।
अचलां श्रियमाप्नोति संग्रामे विजयं तथा ॥१८॥
रामाग्रे हनुमदग्रे यः पठेच्च नरः सदा ।
लिखित्वा पूजयेद्यस्तु सर्वत्र विजयी भवेत् ॥१९॥
यः करे धारयेन्नित्यं सर्वान्कामानवाप्नुयात् ॥२०॥
बुद्धिर्बलं यशोवीर्यं निर्भयत्वमरोगता ।
सुदाढर्यं वाक्स्फुरत्वं च हनुमत्स्मरणाद्भवेत् ॥२१॥
मारणं वैरिणां सद्यः शरणं सर्वसम्पदाम् ।
शोकस्य हरणे दक्षं वन्दे तं रणदारुणम् ॥२२॥
लिखित्वा पूजयेद्यस्तु सर्वत्र विजयी भवेत् ।
यः करे धारयेन्नित्यं स पुमान् श्रियमाप्नुयात् ॥२३॥
स्थित्वा तु बन्धने यस्तु जपं कारयति द्विजैः ।
तत्क्षणान्मुक्तिमाप्नोति निगडात्तु तथैव च ॥२४॥

॥ ईश्वर उवाच ॥
भाविन्दू चरणारविन्दयुगलं कौपीनमौञ्जीधरं, काञ्ची श्रेणिधरं दुकूलवसनं यज्ञोपवीताजिनम् ।
हस्ताभ्यां धृतपुस्तकं च विलसद्धारावलिं कुण्डलं यश्चालंबिशिखं प्रसन्नवदनं श्री वायुपुत्रं भजेत् ॥
यो वारांनिधिमल्पपल्वलमिवोल्लंघ्य प्रतापान्वितो वैदेहीघनशोकतापहरणो वैकुण्ठभक्ति प्रियः ।
अक्षाद्यूर्जितराक्षसेश्वरमहादर्पापहारी रणे सोऽयं वानरपुंगवोऽवतु सदा योऽस्मान् समीरात्मजः ॥
वज्रांगं पिङ्गनेत्रं कनकमयलस्कुण्डलाक्रान्तगण्डं दंभोलिस्तंभसारप्रहरणसुवशीभूतरक्षोधीनाथम् ।
उद्यल्लाङ्गूलसप्तप्रचलाचलधरं भीममूर्तिं कपीन्द्रं ध्यायन्तं रामचन्द्रं भ्रमरदृढकरं सत्त्वसारं प्रसन्नम् ॥
वज्राङ्गं पिङ्गनेत्रं कनकमयलसत्कुण्डलैः शोभनीयं सर्वापीठ्यादिनाथं करतलविधृतं पूर्णकुम्भं दृढाङ्म् ।
भक्तानामिष्टकारं विदधतिच सदा सुप्रसन्नम् हरीशं त्रैलोक्यं त्रातुकामं सकलभुविगतं रामदूतं नमामि ॥
वामे करे वैरभिदं वहन्तं शैलं परं श्रृङ्खलहारकण्ठम् ।
दधानमाच्छाद्य सुवर्णवर्णं भजेज्ज्वलकुण्डलमाञ्जनेयम् ॥
पद्मरागमणिकुण्डलत्विषा पाटलीकृतकपोलमण्डलम् ।
दिव्यदेहकदलीवनान्तरे भावयामि पवमानन्दनम् ॥
यत्र यत्र रघुनाथकीर्तनम् तत्र तत्र कृतमस्तकाञ्जलिम् ।
वाष्पवारिपरिपूर्णलोवनं मारुतिं नमत राक्षसान्तकम् ॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥

विवादे युद्धकाले च द्युते राजकुले रणे ।
दशवारं पठेद्रात्रौ मिताहारो जितेन्द्रियः ॥
विजयं लभते लोके मानवेषु नरेषु च ।
भुते प्रेते महादुर्गेऽरण्ये सागरसम्प्लवे ॥
सिंहव्याघ्रभये चोग्रे शरशस्त्रास्त्रपातने ।
श्रृङ्खलाबन्धने चैव कारागृहादियंत्रणे ॥
कोपस्तम्भे वह्नि-चक्रे क्षेत्रे घोरे सुदारुणे ।
शोके महारणे चैव ब्रह्मग्रह निवारणे ॥
सर्वदा तु पठेन्नित्यं जयमाप्नोति निश्चितम् ।
भूर्जे वा वसने रक्ते क्षौमे वा तालपत्रके ॥
त्रिगंधिना वा मष्या वा विलिख्य धारयेन्नरः ।
पंचसप्तत्रिलोहैर्वा गोपितः सर्वतः शुभम् ॥
करे कट्यां बाहुमूले कण्ठे शिरसि धारितम् ।
सर्वान्कामान्वाप्नोति सत्यं श्रीरामभाषितम् ॥
अपराजित नमस्तेऽस्तु नमस्ते रामपूजित ।
प्रस्थानञ्च करिष्यामि सिद्धिर्भवतु मे सदा ॥
इत्युक्त्वा यो व्रजेद्-ग्राम देशं तीर्थान्तरं रणम् ।
आगमिष्यति शीघ्रं स क्ज़ेमरुपो गृहं पुनः ॥
इति वदति विशेषाद्राघवे राक्षसेन्द्रः प्रमुदितवरचित्तो रावणस्यानुजो हि ।
रघुवरपदपद्मं वंदयामास भूयः कुलसहितकृतार्थः शर्मदं मन्यमानं ॥
तं वेदशास्त्रपरिनिष्ठितशुद्धबुद्धिं शर्माम्बरं सुरमुनीन्द्रनुतं कपीन्द्रम् ।
कृष्णत्वचं क नकपिङ्गजटाकलापं व्यासं नमामि शिरसा तिलकं मुनीनाम् ॥
य इदं प्रातरुत्थाय पठते कवचं सदा ।
आयुरारोग्यसंतानैस्तेभ्यस्तस्य स्तवो भवेत् ॥
एवं गिरीन्द्रजे श्रीमद्धनुमत्कवचं शुभम् ।
त्वयापृष्टं मया प्रीत्या विस्तराद्विनिवेदितम् ॥
॥ रामदास उवाच ॥
एवं शिवमुखाच्छ्रुत्वा पार्वती कवचं शुभम् ।
हनुमतः सदा भक्तया पपाठं तन्मनाः सदा ॥
एवं शिष्य त्वयाप्यत्र यथा पृष्टं तथा मया ।
हनुमत्कवचं चेदं तवाग्रे विनिवेदितम् ॥
इदं पूर्वं पठित्वा तु रामस्य कवचं ततः ।
पठनीयं नरैर्भक्तया नैकमेव पठेत्कदा ॥
हनुमत्कवचं चात्र श्रीरामकवचं विना ।
ये पठन्ति नराश्चात्र पठनं तद्वृथा भवेत ॥
तस्मात्सर्वैः पठनीयं सर्वदा कवचद्वयम् ।
रामस्य वायुपुत्रस्य सद्भक्तेश्च विशेषतः ॥

उल्लंघ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लंकां नमामि तं प्राञ्जलिराञ्जनेयम् ॥

॥ इति श्री ब्रह्माण्ड-पुराणे श्री नारद एवं श्री अगस्त्य मुनि संवादे श्रीराम प्रोक्तं एकमुखी हनुमत्कवचं ॥

. . .